वैदिक साहित्य एवं नैतिक शिक्षण: भारतीय शिक्षाप्रणालीम् उद्भावनाय विश्लेषणात्मक अवलोकनम्
 
संध्या मिश्रा1*, डॉ. रेणु सिंह2
1 रिसर्च स्कॉलर, सनराइज़ यूनिवर्सिटी, अलवर, राजस्थान, भारत
Mishrasandhya9876@Gmail.Com
2 एसोसिएट प्रोफेसर, संस्कृत विभाग, सनराइज़ यूनिवर्सिटी, अलवर, राजस्थान, भारत
सारांश: एषः शोधः वैदिकमूल्याधारितशिक्षायाः समावेशस्य सम्भाव्यता विषयकं विश्लेषणात्मकं अध्ययनम् अस्ति, यत्र भारतस्य समकालीनशिक्षाप्रणाल्यां वैदिकदृष्टेः उपयुक्तत्वं परीक्षणं क्रियते। शिक्षायाः आधुनिकोन्मुखप्रणाली यद्यपि तकनीकीसंपन्ना अस्ति, तथापि मूल्याधारितव्यक्तित्वनिर्माणे स्पष्टं शून्यता दृश्यते। अनेन कारणेन, वैदिकसाहित्ये प्रतिपादितानि यानि आदर्शमूल्यानि – यथा सत्यं, अहिंसा, ब्रह्मचर्यम्, तपः, शीलम्, स्वाध्यायः, आत्मनियमनम् च – तेषां शिक्षायां समावेशनं आवश्यकं मन्यते।
शोधकार्ये द्विविधपद्धतिः उपयुज्यते – प्राचीनवाङ्मयस्य दस्तावेजानां विवेचनम्, तथा समकालीनशिक्षानीतिनिर्देशानां समीक्षणं। शोधस्य प्रमुखविभागेषु वैदिकमूल्यानां स्वभावः, शिक्षायां तेषां समावेशस्य ऐतिहासिकविकासः, वर्तमानपरिप्रेक्ष्ये अस्य प्रयोगिकसंभाव्यता, शिक्षकप्रशिक्षणस्य भूमिका, पाठ्यक्रमसंरचना, तथा डिजिटलमाध्यमेषु मूल्यशिक्षायाः उपयोगिता सम्यक् प्रकारेण विवेचिता अस्ति।
परिणामरूपेण, शोधे प्रतिपाद्यते यत् वैदिकमूल्यानां शिक्षायां समुचितसङ्गठनं केवलं शैक्षिकप्रदर्शनस्य परिष्काराय न, अपितु राष्ट्रनिर्माणाय अपि अनिवार्यम्। निष्कर्षे सिफारिशाः अपि प्रदत्ताः, यथा शिक्षकप्रशिक्षणम्, पाठ्यक्रमपुनरावलोकनम्, अनुभवाधारितमूल्यशिक्षणम् च।
मुख्यशब्द: वैदिकमूल्यानि, मूल्यशिक्षा, पाठ्यक्रमविकासः, शिक्षकप्रशिक्षणम्, समकालीनशिक्षा

1. प्रस्तावना

वर्तमान वैश्विक परिप्रेक्ष्ये भारतीयशिक्षापद्धतिः अत्यन्तं परिवर्तनशीलरूपेण विकसितो दृश्यते। प्रतिस्पर्धातम् आधारितम् अधुना शिक्षणम् प्रायः अंककेंद्रितं, व्यावसायिकाभिनिवेशयुक्तं च जातम्। एतादृश परिस्थितौ विद्यार्थिनां चारित्रिकविकासः, नैतिकसंस्कारः, सामाजिकदायित्वबोधः च न्यूनतया दृश्यन्ते। अतः आधुनिकशिक्षायां मूल्यमूलकशिक्षाया आवश्यकता अत्यन्तं अनुभव्यमाना अस्ति। अस्य समस्याया समाधानरूपेण वैदिकसाहित्ये स्थिताः मूल्यपरम्पराः पुनःप्रवर्तनीयाः इति बहवः विद्वांसः प्रतिपादयन्ति (कुमार, 2020)।
भारतीयवैदिकपरम्परायां धर्मः, सत्यं, अहिंसा, तपः, ब्रह्मचर्यं, कर्तव्यनिष्ठा, गुरुशिष्यपरम्परा च मूलाधाररूपेण स्थिताः। एतानि मूल्यानि केवलं दार्शनिकाः न, अपि तु जीवनव्यवहारानां मार्गदर्शकभूतानि। “सत्यं वद, धर्मं चर”, “मातृदेवो भव, पितृदेवो भव” इत्यादि सूक्तानि मनुष्यजीवनस्य आध्यात्मिकं नैतिकं च स्तरं दृढीकर्तुं समर्थानि भवन्ति (शर्मा, 2021)।
भारतस्य राष्ट्रीयशिक्षानीतिः (NEP 2020) अपि भारतीयज्ञानपरम्परायाः महत्त्वं स्पष्टतया स्वीकृतवती। अस्मिन् नीतिपत्रे संस्कृतभाषायाः, योगस्य, आयुर्वेदस्य, उपनिषद्वेदपाठस्य च शिक्षापद्धतौ पुनःसम्मिलनस्य प्रयासः कृतः दृश्यते (सरकार, 2020)। तथापि एते प्रयासाः नीतिस्तरे विद्यमानाः, परन्तु विद्यालयीयपाठ्यक्रमे तेषां वास्तविकसमावेशनं सम्यग् न दृश्यते (मेहता, 2022)।
इदानीं विद्यमानशोधेषु स्पष्टं दृश्यते यत् विद्यार्थिनां बौद्धिकक्षमता, तर्कक्षमता, संज्ञानविस्तारः च तोषणीयाः भवन्ति, किन्तु सहानुभूति, आत्मनिग्रहः, धैर्यं, सत्यनिष्ठा इत्यादि मूल्यप्रवृत्तयः अल्पतया अस्ति (जैन, 2021)। एते मूल्याः यदि बाल्यावस्थायामेव शिक्षणपद्धतौ स्थापिताः स्युः, तर्हि राष्ट्रनिर्माणं अधिकं सशक्तं भवेत्—इति दृष्टिकोनः वर्धमानः अस्ति (मिश्रा, 2023)।
एतस्मिन् शोधे प्रमुखसमस्या एषा—यद्यपि वैदिकसाहित्यं मूल्यशिक्षायाः उत्कृष्टं स्रोतं अस्ति, तथापि आधुनिकपाठ्यक्रमेषु तस्य सम्यक् समावेशनस्य नीतिः, पद्धतिः वा स्पष्टतया न दृश्यते।
एषः शोधपत्रः एक समीक्षाआधारितम् विश्लेषणम् अस्ति, यत्र वैदिकसाहित्ये स्थिताः नैतिकमूल्यानां आधुनिकशिक्षायां उपयोगितां, शिक्षापद्धतौ समावेशनस्य सम्भावनां, तथा तस्य फलप्रदत्वं परीक्षणीयम्।

2. वैदिक साहित्ये नैतिक शिक्षायाः प्रतिपादनम्

वैदिक साहित्यं केवलं आध्यात्मिकता वा दैविक उपासना न प्रतिपादयति, अपितु मानवीय जीवनस्य सर्वाङ्गिण विकासं प्रति अपि अत्यन्तं केन्द्रितम् अस्ति। वैदिककालीन शिक्षायाः मूलं यत्र द्रष्टव्यं, तत्र नैतिक मूल्येषु विशेषः महत्त्वं दृश्यते। ऋग्वेदे, यजुर्वेदे, सामवेेदे, अथर्ववेेदे च तेषु विविधेषु मन्त्रेषु धर्मनिष्ठा, सत्यवादिता, ऋणदायित्वम्, संयमः, यज्ञभावना, सेवा, आत्मानुशासनम्, गुरुशिष्यसम्बन्धः च इत्येते मूल्यमण्डलानि विस्तारतः निरूपितानि सन्ति।
सत्यवचनम् — ऋग्वेदे (ऋग्वेदः 10.85.1) सत्यं ब्रह्मेति प्रतिपाद्य, सत्यमेव परमं धर्मं इति स्थितं दर्शयति। सत्यं न केवलं भाषायाः शुद्धता, अपि तु आचरणस्य आधारभूतं मान्यते। उपनिषदः अपि (बृहदारण्यकोपनिषद् 1.4.14) सत्यं मूलं ब्रह्मविद्यायाः इति बोधितवत्यः। अनेन दर्श्यते यत् वैदिक शिक्षायाम् आरभ्य सर्वाङ्गिणं सत्यपालनं बाल्ये एव शिक्ष्यते स्म (शर्मा, 2019)।
ऋणत्रयं — वैदिक शिक्षायाम् अत्यन्तं महत्त्वपूर्णं दृष्टिकोणं अस्ति ‘ऋणत्रयं’ – पितृऋणम्, देवऋणम्, आचार्यऋणम्। यजुर्वेदे (यजुर्वेदः 1.1) प्रतिपादितं यत् मानवः जन्मतः एव एतेभ्यः ऋणी भवति। पितृऋणात् तस्य कुलधर्मरक्षणम्, देवऋणात् यज्ञादिना लोककल्याणाय कर्म, आचार्यऋणात् ज्ञानप्राप्त्यर्थं अनुशासनपालनम् आवश्यकं भवति (दत्तात्रेयः, 2021)। एषा नैतिक दृष्टिः भारतीय शिक्षातन्त्रस्य मूलाधारे स्थापिता आसीत्।
आत्मसंयमः — उपनिषदः (छान्दोग्योपनिषद् 7.1.1) एवं ब्रह्मचर्यं संयमं च आचार्यशिष्ययोः सम्बन्धे विशेषतः उद्दिश्य प्रवर्तयति। संयमस्य स्वरूपं केवलं इन्द्रियनिग्रहः न, अपि तु भावनानां सन्तुलनं, कामक्रोधादेः दमनं च। एषः आत्मनिग्रहः जीवनस्य सर्वेषु क्षेत्रेषु यथा - शिक्षायाम्, पारिवारिके व्यवहारेषु, सामाजिके कर्तव्येषु च – आवश्यकः इति स्वीकार्यते (त्रिपाठीः, 2020)।
यज्ञीय भावना — वैदिक यज्ञः केवलं अग्निहोत्रं वा हविर्दानं न, अपि तु सर्वकार्येषु परार्थतायाः बोधकः। यजुर्वेदे (यजुर्वेदः 40.2) यज्ञं तेन त्यजेन भुञ्जीथा इत्युक्त्वा यज्ञेन जीवने सामाजिक समर्पणस्य महत्वं बोधितम्। शिक्षायामपि गुरवे समर्पणं, अध्ययनं तु लोकहिताय – एषा दृष्टिः नैतिक शिक्षायाः मूलं आसीत् (चतुर्वेदीः, 2022)।
सेवा भावनाः — अथर्ववेदे (अथर्ववेदः 19.9.10) सेवायाः महत्त्वं प्रतिपादितम्, यत्र समर्पणं, सहिष्णुता च प्रमुखतः दर्शितौ। शिक्षायाम् अपि शिक्षकम् सेवायुक्तं, शिष्यं विनीतं कर्तुं सेवा-मूल्यस्य शिक्षणं आवश्यकं आसीत् (शुक्लः, 2018)। स्वार्थत्यागः, परमार्थं च उद्देश्यभूतः।
आत्मविकासः — वैदिक शिक्षायाः अन्तर्गतं आत्मविकासः – आत्मज्ञानस्य, आत्मनिष्ठायाः च साधनम् आसीत्। उपनिषदः (केनोपनिषद् 1.1) आत्मा, मनः, इन्द्रियाणि च तेषां परस्परसम्बन्धः विशदीकृतः। आत्मविकासः नैतिकतायाः बीजं भवति। आत्मा परिशुद्धः चेत्, तदा सर्वे गुणाः स्वाभाविकं प्रकटन्ते (मिश्रः, 2021)।
गुरुशिष्यसंवादः — वैदिक शिक्षायाम् गुरोः स्थानं ब्रह्मतुल्यं, यत्र शिष्यः विनयेन, श्रद्धया च अध्ययनं कुर्वन् आत्मविकासं साधयति। तैत्तिरीयोपनिषदि (2.1.1) ‘मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव’ इत्युक्तिः गुरुवत्सलतां प्रतिपादयति। शिक्षायाम् गुरोः आज्ञायाः पालनम्, शिष्यस्य कर्तव्यविमर्शः च – एषा पद्धतिः नैतिक अनुशासनस्य मूलं आसीत् (गोस्वामीः, 2017)।
एवं, वैदिक साहित्यं मानवीय मूल्यसंवर्धनाय एकं विशदं मार्गदर्शनं प्रदत्तवती। आधुनिक शिक्षापद्धतिषु अपि एतानि मूल्यवर्धकानि तत्त्वानि यथायोग्यं समावेशनीयानि भवन्ति। वैदिक शिक्षायाः अनुशीलनेन बालकस्य व्यक्तित्वविकासः, सामाजिक चेतना च सहजातः सम्पद्यते।

3. भारतीय शिक्षाप्रणाली वर्तमाने च नैतिक शिक्षायाः अभावः

भारतीय शिक्षाप्रणाली प्राचीनकाले गुरुकुलमूलका आसीत्, यत्र शिक्षा केवलं परीक्षाफलप्राप्त्यर्थं न, अपितु जीवननिर्माणाय, चरित्रविकासाय, समग्रमानवधर्मप्रतिष्ठाय च प्रयुज्यते स्म। किन्तु इदानीं, विशेषतः आधुनिकशिक्षायाम्, एतत् स्वरूपम् शनैः शनैः लुप्तं जाता इति स्पष्टं दृश्यते।
अधुना विद्यालयेषु विशेषतः सरकारीशिक्षाकेन्द्रेषु शिक्षणप्रक्रिया परीक्षापरिणामकेन्द्रितरूपेण विकसितास्ति। छात्राः केवलं उच्चाङ्कप्राप्त्यर्थं प्रयत्नशीलाः, न तु नैतिकमूल्यानां, आत्मानुशासनस्य, सहानुभूतेः वा विकासाय। एषः दोषः शैक्षिकसर्वेक्षणेषु स्पष्टतया निरूपितः अस्ति, यत्र दर्शितं यत् छात्रेषु कर्तव्यभावना, समाजसेवाचेतना, सत्यनिष्ठा, तथा कृतज्ञता इत्यादयः गुणाः अत्यल्पाः दृश्यन्ते (शर्मा, 2021)।
भारतीय शिक्षापद्धतौ नैतिकशिक्षायाः पृथग्विषयरूपेण प्रस्तुति न दृश्यते। कतिपय विद्यालयेषु नैतिकशिक्षा नामकः पाठः अस्ति, किन्तु तेषां अध्यापनं केवलं औपचारिकं, अभिप्रायशून्यं च भवति। वास्तविकरूपेण यदि मूल्यशिक्षां छात्रेभ्यः दातुम् इच्छामः तर्हि तस्या व्यवहाराधारितं प्रशिक्षणं आवश्यकम्, किन्तु वर्तमानस्थितौ एतादृशं प्रयत्नं दुर्लभम् (वर्मा, 2019)।
इदानीं शिक्षकेषु अपि नैतिकदृष्ट्याः प्रशिक्षणं नास्ति। बहवः शिक्षकाः स्वीकुर्वन्ति यत् अध्यापनस्य समये केवलं पाठ्यसामग्री, परीक्षाप्रश्ननिवृत्तिः च अपेक्ष्यते, न तु मूल्यविकासः। अध्यापकशिक्षणसंस्थानेषु नैतिकशिक्षायाः प्रशिक्षणं यदि वास्तवं स्यात्, तर्हि शिक्षकाः प्रथमं स्वयम् मूल्यनिष्ठाः भवन्ति, ततः एव छात्रेषु संस्कारप्रवर्तनं सम्भवति (तिवारी, 2020)।
इदानींतन शिक्षायाः अन्यतमं कारणं 'डिजिटलप्रभावः' अस्ति। छात्राः सामाजिकमाध्यमेषु यथा — मोबाइलउपकरणे, YouTube, Instagram, Reelसंस्कृतौ — आकर्षिताः सन्ति। तस्मात् मनसि बाह्यप्रलम्बनम्, असहनशीलता, तथा आत्मसंयमस्य न्यूनता दृश्यते। अध्ययनम् अधिकं, जीवनमूल्यानि अधः—एषा स्थितिः चिन्ताजनका भवति (राय, 2022)।
अधुना नीतिशिक्षायाः सर्वाधिकं दुर्बलां रूपां विद्यालयीननिर्माणे दृश्यते। राष्ट्रे अभिवृद्धिः आर्थिकरूपेण दृश्यते, किन्तु सामाजिकदृष्ट्या अवनतिः शैक्षणिकपतनस्य सूचकं भवति। यदि छात्राः केवलं ज्ञानसम्पन्नाः, किन्तु अनैतिकव्यवहारयुक्ताः, तर्हि एषा शिक्षा राष्ट्रं विनाशमार्गे नयति।
UNESCOआधारिते एकस्मिन् प्रतिवेदने दर्शितं यत् राष्ट्रस्य भविष्यस्य मूलाधारः नैतिकमूल्ययुक्ता शिक्षापद्धतिः भवति; अन्यथा समाजे हिंसा, स्वार्थता, अविश्वासः च वर्धते (UNESCO, 2020)।
भारतीय शिक्षापद्धतिः यदि पुनः मूल्याधारितं स्वरूपं प्राप्तुम् इच्छति, तर्हि पाठ्यक्रमपरिवर्तनं, शिक्षकप्रशिक्षणं, तथा विद्यालयीयसांस्कृतिकवातावरणं मूल्यसंस्कृतिमूलकम् कर्तव्यं। विद्यालयेषु प्रार्थना, चर्चा, चरित्रनाटकं, समाजसेवा, ध्यानाभ्यासः च यदि नियमितरूपेण प्रवर्त्यते, तर्हि मूल्यशिक्षा पुनर्जीवनं प्राप्नुयात्।
अतः स्पष्टं यत् आधुनिकभारतीय शिक्षायाम् नैतिकशिक्षायाः अभावः एकः शैक्षणिकदोषः न, अपितु सामाजिकविघटनस्य मूलकारणं। यदि तस्य समाधानं न क्रियते, तर्हि शिक्षितः मानवः अपि राष्ट्राय दायित्वहीनः, अनियमितः, तथा व्यक्तिगतलाभमात्रे प्रवृत्तः भविष्यति।

4. शैक्षिकपाठ्यक्रमे वैदिकमूल्यानां समावेशस्य सम्भाव्यता

समाजस्य नैतिकदिग्भिः पतिते सन्दर्भे अद्यतनशिक्षायाः नैतिकपुनःस्थापनं परमावश्यकं दृश्यते। एषा आवश्यकता राष्ट्रीयशिक्षानीतिः 2020 इत्यस्य प्रवर्तने स्पष्टं प्रकाशितं जाता। अस्य नीतिः उद्देश्यः केवलं ज्ञानदानं न, अपितु मूल्याधारितशिक्षायाः प्रतिष्ठापनमपि अस्ति (भारतशासन, 2020)।
वैदिकसाहित्यं, विशेषतः यजुर्वेदे, सामवेदे च उल्लिखितानि मूल्यदर्शनानि – सत्यं, अहिंसा, शीलम्, श्रद्धा, स्वाध्यायः इत्यादीनि – केवलं धार्मिकपरम्परायामेव न दृश्यन्ते, अपि तु व्यक्तित्वनिर्माणे अपि गवेष्यन्ते (शुक्ल, 2021)। अनेन दृष्ट्या पाठ्यपुस्तकेषु वैदिकमूल्यानां समावेशः विद्यार्थीनां चारित्रिकविकासाय प्रेरकः स्यात्।
एनसीईआरटी योजनायामपि २०२१ वर्षे पुनरावलोकने समये पाठ्यविषयेषु संस्कृतसाहित्ये च नैतिकमूल्यानां समावेशस्य अनुशंसा जाता (एनसीईआरटी, 2021)।
तथापि, शिक्षायामेतस्मिन्बलप्रवेशे कतिपयविघ्नाः अपि दृश्यन्ते। शिक्षकेभ्यः पर्याप्तप्रशिक्षणाभावः, पाठ्यपुस्तकानां अप्रामाणिकता, विद्यालयेभ्यः मूल्यमापनाय साधनानां न्यूनता च प्रमुखविघ्नरूपेण उद्भवन्ति (गोयल, 2022)।
समसामयिकपरिप्रेक्ष्ये, शिक्षायाः समावेशात्मकविकासाय संवादात्मिका शिक्षणपद्धतिः अतीव आवश्यकी। संवादात्मकशिक्षणशैलीया विद्यार्थिषु नैतिकचिन्तनस्य संवर्धनं करोतु। छात्रः अध्यापकं पृच्छति, उदाहरणानि श्रावयति, तत्तत्परिस्थितौ मूल्यनिर्णयं करोति – एषा शैली उत्तमा दृश्यते (वर्मा, 2023)।
प्राथमिकस्तरात् आरभ्य उच्चशिक्षां यावत् पाठ्यपद्धतिः एतादृशी भविष्यति चेत् नैतिकदिग्भिः भारतस्य शिक्षायाः पुनः उत्कर्षः संभवः।
अनुकरणात्मकशिक्षणपद्धतिः अपि तत्र उपयोगी स्यात्। उदाहृत्य, "सत्यं वद, धर्मं चर" इति महावाक्यानि यदि जीवनोपयोग्यदृष्ट्या वर्ण्यन्ते च तानि शिक्षायाम् विद्यार्थिनः हृदयंगमं कुर्वन्ति (नारायणः, 2022)।
अन्तरराष्ट्रीयपृष्ठभूम्यामपि यदि परिगण्यते तर्हि वैदिकदृष्टिः मूल्यनिष्ठायाः शिक्षायै एकं प्राचीनं किन्तु कालोचितं विकल्पं प्रस्तोति। यथा यूनिसेफ् रिपोर्ट् इत्यस्मिन् प्रतिवेदने अपि प्रतिपादितं यत् मूल्याधारितशिक्षा बालानाम् सुदीर्घकालीनव्यवहारपरिवर्तनाय प्रभावशाली स्यात् (UNICEF, 2020)।
वैदिकमूल्यानां आधुनिकशिक्षायां समावेशाय पाठ्यपुस्तकानां पुनःसंरचनम् आवश्यकम्। उपनिषद्, रामायण, महाभारतादिषु स्थितानि संवादरूपकथनानि बालानाम् नैतिकबोधाय अत्युत्तमानि स्युः।
एनसीईआरटी पाठ्यपुस्तकासु यदि प्रतिदिनं पाठे एकं नैतिकप्रश्नम् अपि उपस्थाप्यते, छात्रः आत्मावलोकनं करोति। उदाहरणरूपेण, “यदि त्वं सत्यं वदसि, तर्हि कः लाभः?” इत्यादिनि प्रश्नानि छात्रचिन्तनं प्रवर्तयन्ति (शास्त्री, 2021)।
प्रौद्योगिकीशिक्षायामपि मूल्यसंवेदनं स्थापनीयम्। यद्यपि डिजिटलयुगः विद्यार्थिनः मोबाइल्-लिप्तान् करोति, तथापि एप्स्, विडियोद्वारा मूल्यदर्शनस्य शिक्षायाः नूतनसाधनानि उत्पद्यन्ते (सिन्हा, 2023)।
संक्षेपेण, समकालीनशैक्षिकपरिवेशे वैदिकमूल्यानां पाठ्यक्रमे समावेशः केवलं सांस्कृतिकपुनरुद्धाराय न, अपितु जीवनगुणवृध्दये अपि सहायकः। एषः समावेशः शिक्षाप्रणाल्याः समग्रोपग्रहार्थं आवश्यकः।

5. निष्कर्षः तथा सिफारिशा

वर्तमानशोधस्य समग्रचिन्तनानन्तरं यत् प्रत्यक्षं निष्कर्षरूपेण प्रकाशितं दृश्यते, तत् एतावदेव यत् वैदिकसाहित्ये प्रतिपादितं नैतिकदर्शनं केवलं पुरातनदृष्ट्या न दृश्यते, अपि तु अद्यतनपरिस्थितौ अपि शिक्षाक्षेत्रे अत्यन्तोपयोगी अस्ति। प्राचीनानां ऋषीणां चिन्तनं, यथा सत्यं, अहिंसा, दया, तपः, ब्रह्मचर्यम्, स्वाध्यायः, सेवा, स्वाभाविकदायित्वम् इत्यादीनि मूल्यरूपेण समुपस्थितानि, समकालीनसमाजे चरित्रनिर्माणाय प्रमुखसोपानानि भवन्ति।
शोधेन एषा स्पष्टतया प्रमाणितं यत् यदा शिक्षायाम् वैदिकमूल्यानां समावेशः क्रियते, तदा तेन न केवलं विद्यार्थीणां व्यवहारो नवदिशां गच्छति, अपितु तैः राष्ट्रस्य भावी नागरिकाः सुदृढचरित्रवन्तः अपि सन्ति। एते नैतिकनिष्ठाः विद्यार्थीः भविष्ये राजकीय-प्रशासनिक-वैज्ञानिक-सामाजिक-धार्मिक-सांस्कृतिके क्षेत्रे नेतृत्वं कुर्वन्तः राष्ट्रस्य पुनःनिर्माणे संलग्नाः स्युः।
शोधवृत्तान्ते अद्यतनशिक्षायाम् ये दोषाः दृश्यन्ते – तद्यथा मूल्यहीनता, उद्देश्यमुक्तशिक्षणम्, परीक्षा-केंद्रितदृष्टिः, अनुकम्पाशून्यता च – एते सर्वे वैदिकमूल्यानां न्यूनतया एव उद्भूताः। यदा पाठ्यक्रमे प्रतिदिनं सत्यम्, सेवाभावः, आत्मनिग्रहः इत्यादयः मूल्यविचाराः समाहिताः भविष्यन्ति, तदा शिक्षायाः ध्येयनिर्णयः स्पष्टो भविष्यति।
एतस्मिन्शोधे एवमपि निरीक्षितं यत् केवलं पाठ्यपुस्तकविन्यासे मूल्यदर्शनं स्थापयित्वा कार्यं न सिद्ध्यति। यावत् शिक्षकेषु आत्मसात्कृतेषु मूल्यदृष्टिषु निष्ठा न स्यात्, तावत् प्रभावः स्थायित्वेन न भविष्यति। अतः प्रथमं शिक्षकेभ्यः विशेषप्रशिक्षणम् – यत्र ते वैदिकमूल्यानां गम्भीरबोधनं प्राप्तुं शक्नुवन्ति – अनिवार्यं कर्तव्यम्।
पुनः, सरकारेण पाठ्यपुस्तकानां पुनःसंरचनं करणीयम्। सायंकालपाठः इव नैतिकशिक्षायाः पृथग्भावः कर्तव्यो नास्ति, अपि तु सर्वेषु विषयेषु – गणिते, विज्ञानं, इतिहासे, साहित्ये, भाषायाम् – मूल्यचिन्तनं अंतर्निहितं कर्तव्यम्। उदाहरणरूपेण, गणिते "सत्यं" तु प्रमेयस्य प्रमाणे, विज्ञानस्य "अहिंसा" तु पर्यावरणसंबद्धप्रयोगेषु, इतिहासे "कर्तव्यबोधः" नेतृवृत्तान्तेषु, साहित्ये "दया" पात्रवर्णने प्रतिपाद्यं स्यात्।
शोधे अन्यतमः विचारः अपि एवमुत्थापितः यत् शिक्षायाम् नैतिकमूल्यानां मूल्याङ्कनपद्धतिः अपि स्थापनीया। यथा परीक्षा केवलं ज्ञानस्य मापनं करोति, तथैव विद्यार्थिनां नैतिकदृष्टेः, सहानुभूतेः, संवेदनशीलतायाः, आत्मनियन्त्रणस्य च अपि यथोचितं मूल्यांकनं पाठ्यक्रमे समावेशनीयम्।
शोधेन एवमपि अनुमोदितं यत् मूल्यशिक्षा यदि केवलं उपदेशरूपेण शिक्ष्यते तर्हि तस्य स्थायित्वं क्षीणं भवति। अतः अनुभवान्वितशिक्षणपद्धत्याः समावेशः आवश्यकः। छात्राणां जीवनव्यवहारानुसारेण मूल्याभ्यासः – यथा सहकार्येण क्रीडायाम्, समूहचिन्तनसत्रेषु, नाट्यद्वारा, कथा-सम्भाषणादिषु – करणीयः।
आधुनिकप्रौद्योगिकीसमये, वैदिकमूल्यानि डिजिटलमाध्यमेन प्रचारितुं शक्यन्ते। यदि शिक्षणपद्धतिः ई-पाठ्यक्रमेषु, मोबाइल-अनुप्रयोगेषु, चलचित्रेषु च नैतिकचिन्तनं अन्तर्भावयति, तर्हि बालाः स्वाभाविकतया तान्यादर्शरूपेण स्वीकुर्वन्ति। शिक्षायाः एषः नवदिग्दर्शनं भविष्ये मूल्यसंवेदनाय उत्प्रेरकम् स्यात्।
शोधान्ते, सिफारिशारूपेण किञ्चन बहुविधदृष्टिपातं कर्तुं शक्यते:
(१) पाठ्यक्रमपुनरावलोकनम् – शिक्षायाः सर्वस्तरेषु वैदिकमूल्यनिष्ठं पाठ्यसंरचनं करणीयम्, यत्र प्राचीन-नवीनदृष्टीनां समन्वयः अस्ति।
(२) शिक्षकप्रशिक्षणम् – नैतिकशिक्षायाः कृते सर्वे शिक्षका अपि प्रेरिताः सन्तु। तेषां कृते वार्षिकप्रशिक्षणशिविराणि, कार्यशालाः, अभ्यासवर्गाः च आयोजनीयाः।
(३) विद्यालयीयरचनात्मकवातावरणम् – यत्र मूल्यवर्धनं केवलं शब्दे न, अपितु कार्ये अपि दृश्यते। अध्यापकः अपि आचरणेन आदर्शः भवतु, छात्रः अपि सह-अध्ययनकार्यक्रमेषु सहभागी भवेत्।
(४) पालकानां सहभागिता – विद्यार्थिनां मूल्यविकासे गृहस्य अपि भागीदारी अनिवार्या। पालकानां कृते अपि मूल्यशिक्षायाः सन्दर्भे उन्नयनकार्यक्रमाः आयोजनीयाः।
(५) सार्वजनिकनीतिनिर्माणे नैतिकदृष्टिः – शिक्षासम्बद्धनीतिषु, आर्थिकनिर्णयेषु, सामाजिकनियमनप्रक्रियासु अपि मूल्यमन्यः दृष्टिपातः स्थापनीयः। मूल्यनिर्माणेन सह समाजनिर्माणं सम्भवम्।
एवं सम्यग्दृष्ट्या मूल्याधारितशिक्षायाः पुनःस्थापनं क्रियते चेत् न केवलं व्यक्तित्वनिर्माणः, अपितु राष्ट्रनिर्माणः अपि सुगमः स्यात्। एषः शोधः तु केवलं विचारस्तरपर्यन्तं न स्थास्यति, अपितु तस्य आधारः शिक्षायाः क्रियात्मकपरिवर्त्तनाय भूयात् इति अपेक्ष्यते।
तस्मात्, निष्कर्षरूपेण इदम् वक्तुं शक्यते यत् वैदिकदृष्ट्या मूल्यनिष्ठः शिक्षायाः अवलम्बनं न केवलं संस्कृतिकपुनरुत्थानस्य मार्गम् उद्घाटयति, अपि तु भाविनागरिकाणां समुन्नतिव्यक्तित्वस्य निर्माणाय आधारमपि स्थापयति। अयं मार्गः राष्ट्रस्य उज्जवलभविष्याय नैतिकाधारितस्य शिक्षायाः नूतनदिशां सूचयति।

संदर्भ सूची

  1. UNESCO. (2020). वैश्विक मूल्यशिक्षा प्रतिवेदनम्. पेरिस: संयुक्त राष्ट्र शैक्षिक वैज्ञानिक संगठन।
  2. UNICEF। (2020)। Education for Ethical Development: Global Perspectives। न्यूयॉर्कः यूनिसेफ् प्रकाशनम्।
  3. एनसीईआरटी। (2021)। शिक्षणपाठ्यविधिः – पुनरावलोकनप्रतिवेदनम्। नयी दिल्लीः एनसीईआरटी प्रकाशनम्।
  4. कुमार, आर. (2020). भारतीय शिक्षामें मूल्य संकट. दिल्ली: राष्ट्रीय प्रकाशन।
  5. गोयलः, ए. (2022)। भारतीयशिक्षायाः समस्याः च समाधानानि। नयी दिल्लीः ज्ञानभारतीप्रकाशनम्।
  6. गोस्वामीः, आर. (2017). गुरुशिष्य परम्परा: उपनिषदों के आलोक में. कोलकाता: संस्कृत संगम।
  7. चतुर्वेदीः, एस. (2022). वैदिक कालीन शिक्षातन्त्र: यज्ञ और नैतिकता का समन्वय. दिल्ली: भारती प्रकाशन।
  8. जैन, ए. (2021). चरित्र निर्माण और भारतीय शिक्षादर्शन. भोपाल: भारतीय चिंतन प्रकाशन।
  9. तिवारी, क. (2020). शिक्षकप्रशिक्षण एवं मूल्यविकास. भोपाल: भारतीय प्रशिक्षण निकेतन।
  10. त्रिपाठीः, वी. (2020). उपनिषदों में आत्मसंयम का स्वरूप. प्रयागराज: वेद विज्ञान परिषद।
  11. दत्तात्रेयः, एम. (2021). ऋणत्रय सिद्धान्तः – एक सांस्कृतिक विश्लेषणम्. पुणे: संस्कृतभारती प्रकाशनम्।
  12. नारायणः, आर. (2022)। वैदिकमूल्यानां आधुनिकशिक्षायां प्रासंगिकता। वाराणसीः संस्कृतविद्यापीठम्।
  13. भारत सरकार। (2020). राष्ट्रीय शिक्षा नीति 2020. नई दिल्ली: शिक्षा मंत्रालय।
  14. भारतशासनः। (2020)। राष्ट्रीयशिक्षानीतिः 2020। मानवसंसाधनविकासमंत्रालयः।
  15. मिश्र, पी. (2023). गीता, वेद और समकालीन शिक्षा. जयपुर: भारतीय साहित्य अकादमी।
  16. मिश्रः, डी. (2021). आत्मविकास और वैदिक शिक्षा. जयपुर: ऋषि साहित्य सदन।
  17. मेहता, सु. (2022). भारतीय पारंपरिक ज्ञान और आधुनिक शिक्षा: एक विश्लेषणात्मक अध्ययन. लखनऊ: वाणी प्रकाशन।
  18. राय, प. (2022). डिजिटल युग में छात्रों की नैतिक चेतना. वाराणसी: मानव अध्ययन मंडल।
  19. वर्मा, एस. (2019). शिक्षणपद्धतिः एवं नैतिक मूल्यानां क्षीणता. लखनऊ: शिक्षा शोध संस्थान।
  20. वर्मा, एस. (2023)। संवादात्मक शिक्षणशैलीया नैतिकशिक्षायाः प्रभावः। जयपुरः नवीनशोधप्रकाशनः।
  21. शर्मा, आर. (2019). वैदिक साहित्य में नैतिक शिक्षा. वाराणसी: भारतीय विद्या संस्थान।
  22. शर्मा, डी. (2021). वैदिक संस्कृति और शिक्षा व्यवस्था. वाराणसी: संस्कृत विद्यापीठ प्रकाशन।
  23. शर्मा, र. (2021). भारतीय विद्यालयों में मूल्यशिक्षा का पतन. दिल्ली: नीतिशास्त्र प्रकाशन।
  24. शास्त्रीः, डी.के. (2021)। रामायणमहाभारतयोः पाठ्यपुस्तकानां माध्यमेन पाठ्यक्रमे समावेशः। कोलकाता विश्वविद्यालयः संस्कृतविभागः।
  25. शुक्लः, एन. (2018). सेवा भावना: वैदिक दृष्टिकोण से. लखनऊ: मानव मूल्य प्रतिष्ठान।
  26. शुक्लः, पी. (2021)। सत्यस्य स्वरूपं वैदिकसाहित्ये। लखनऊः विद्या प्रेस्।
  27. सिन्हा, एम. (2023)। डिजिटल शिक्षायां नैतिकमूल्यानां सम्भाव्यता। पटना विश्वविद्यालयः शिक्षाविभागः।